श्रवणम्

7.40.5
अ॒स्य दे॒वस्य᳚ मी॒ळ्हुषो᳚ व॒या विष्णो᳚रे॒षस्य᳚ प्रभृ॒थे ह॒विर्भि᳚ः ।
वि॒दे हि रु॒द्रो रु॒द्रियं᳚ महि॒त्वं या᳚सि॒ष्टं व॒र्तिर᳚श्विना॒विरा᳚वत् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । दे॒वस्य᳚ । मी॒ळ्हुषः᳚ । व॒याः । विष्णोः᳚ । ए॒षस्य᳚ । प्र॒॑भृ॒थे । ह॒विः॑भिः᳚ ।
वि॒दे । हि । रु॒द्रः । रु॒द्रिय᳚म् । म॒हि॒॑त्वम् । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा᳚॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रभृथे हविर्भिर्हवीरूपैरन्नैरेषस्य प्रापणीयस्य मीह्ळुषः कामानां सेक्तुः विष्णोः सर्वदेवात्मकस्य अस्य देवस्य विष्णुः सर्वादेवताइतिश्रुतेः । अन्येदेवाः वयाः शाखाइव भवन्ति रुद्रोदेवः रुद्रियं रुद्रसंबन्धिसुखं महित्वं महत्त्वं च विदेहि अस्मान् प्रापयति खलु अपिच हे अश्विनौ देवौ युवां इरावत् हविर्लक्षणान्नयुक्तं वर्तिरस्मदीयं गृहं यासिष्टं अयासिष्टं आगच्छतं ॥ ५ ॥