अ॒यं हि ने॒ता वरु᳚ण ऋ॒तस्य᳚ मि॒त्रो राजा᳚नो अर्य॒मापो॒ धुः ।
सु॒हवा᳚ दे॒व्यदि᳚तिरन॒र्वा ते नो॒ अंहो॒ अति᳚ पर्ष॒न्नरि᳚ष्टान् ॥
सु॒हवा᳚ दे॒व्यदि᳚तिरन॒र्वा ते नो॒ अंहो॒ अति᳚ पर्ष॒न्नरि᳚ष्टान् ॥
पदपाठः (Word-by-word)
अ॒यम् । हि । ने॒ता । वरु᳚णः । ऋ॒तस्य᳚ । मि॒त्रः । राजा᳚नः । अ॒र्य॒मा । अपः᳚ । धुरिति॒ धुः ।
सु॒॑हवा᳚ । दे॒वी । अदि᳚तिः । अ॒न॒र्वा । ते । नः॒ । अंहः᳚ । अति᳚ । प॒र्ष॒न् । अरि᳚ष्टान् ॥
सु॒॑हवा᳚ । दे॒वी । अदि᳚तिः । अ॒न॒र्वा । ते । नः॒ । अंहः᳚ । अति᳚ । प॒र्ष॒न् । अरि᳚ष्टान् ॥
सायणभाष्यम् (Sayana Commentary)
ऋतस्य यज्ञस्य सत्यस्यवा नेता प्रापयिता अयंहि अयंखलु वरुणश्च मित्रश्च अर्यमा च एते राजानः समर्थादेवाः अपः अस्मदीयं यज्ञादि- लक्षणं कर्म धुः अधुः दधति अनर्वा केनाप्यप्रतिगता देवी द्योतमाना अदितिरदीना देवमाता सुहवा शोभनाह्वाना भवति ते वरु- णादयोदेवाः अरिष्टानबाधितान् सतोनोस्मान् अंहोदुरितं अतिपर्षन् अतिपारयन्तु ॥ ४ ॥