श्रवणम्

7.40.3
सेदु॒ग्रो अ᳚स्तु मरुत॒ः स शु॒ष्मी यं मर्त्यं᳚ पृषदश्वा॒ अवा᳚थ ।
उ॒तेम॒ग्निः सर᳚स्वती जु॒नन्ति॒ न तस्य᳚ रा॒यः प᳚र्ये॒तास्ति᳚ ॥
▶ पदपाठः (Word-by-word)
सः । इत् । उ॒ग्रः । अ॒स्तु॒ । म॒रु॒तः॒ । सः । शु॒ष्मी । यम् । मर्त्य᳚म् । पृ॒ष॒त्॑अ॒श्वाः॒ । अवा᳚थ ।
उ॒त । ई॒म् । अ॒ग्निः । सर᳚स्वती । जु॒नन्ति᳚ । न । तस्य᳚ । रा॒यः । प॒रि॒॑ए॒ता । अ॒स्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पृषदश्वाः पृषच्छब्देन केचिन्मृगविशेषाउच्यन्ते तएवाश्वावाहायेषां ते एवंभूता हे मरुतोरुद्रपुत्रादेवाः यूयं मर्त्यं मरणधर्माणं यं यज- मानं अवाथ पालयत सेत् सएव यजमानः उग्रःअस्तु ओजस्वीभवतु तथा सशुष्मी बलवान् भवतु तथा उतापिच अग्निरंगनादिगुणयु- क्तोदेवः सरस्वती वाग्देवता चेत्याद्याः सर्वेदेवा ईमेनं यजमानं जुनन्ति प्रवर्तयन्ति तस्य यजमानस्य संबन्धिनोरायोधनस्य कश्चिदपि पर्येता परिगन्ता नास्ति नाशको नभवतीत्यर्थः ॥ ३ ॥