अता᳚रिष्म॒ तम᳚सस्पा॒रम॒स्य प्रति॒ स्तोमं᳚ देव॒यन्तो॒ दधा᳚नाः ।
पु॒रु॒दंसा᳚ पुरु॒तमा᳚ पुरा॒जाम᳚र्त्या हवते अ॒श्विना॒ गीः ॥
पु॒रु॒दंसा᳚ पुरु॒तमा᳚ पुरा॒जाम᳚र्त्या हवते अ॒श्विना॒ गीः ॥
पदपाठः (Word-by-word)
अता᳚रिष्म । तम᳚सः । पा॒रम् । अ॒स्य । प्रति᳚ । स्तोम᳚म् । दे॒व॒॑यन्तः᳚ । दधा᳚नाः ।
पु॒रु॒॑दंसा᳚ । पु॒रु॒॑तमा᳚ । पु॒रा॒॑जा । अम᳚र्त्या । ह॒व॒ते॒ । अ॒श्विना᳚ । गीः ॥
पु॒रु॒॑दंसा᳚ । पु॒रु॒॑तमा᳚ । पु॒रा॒॑जा । अम᳚र्त्या । ह॒व॒ते॒ । अ॒श्विना᳚ । गीः ॥
सायणभाष्यम् (Sayana Commentary)
अस्य तमसोज्ञानस्य तत्कार्यस्य जननमरणवतः संसारदुःखस्य अथवा प्रकृतत्वात् प्रयोगविषयाज्ञानस्य पारं अतारिष्म तीर्णाः स्म । किं कुर्वन्तः देवयन्तो देवकामाः स्तोमं स्तुतिं पतिदधानाः देवेषु कुर्वाणाः पुरुदंसा बहुकर्माणौ पुरुतमा प्रभूततमौ पुराजा पूर्वजातौ अतएवामर्त्या अमरणधर्माणावश्विनाश्विनौ गीर्गरिता स्तोता वसिष्ठोहवते स्तौति आह्वयति वा ॥ १ ॥