श्रवणम्

7.73.4
उप॒ त्या वह्नी᳚ गमतो॒ विशं᳚ नो रक्षो॒हणा॒ सम्भृ᳚ता वी॒ळुपा᳚णी ।
समन्धां᳚स्यग्मत मत्स॒राणि॒ मा नो᳚ मर्धिष्ट॒मा ग᳚तं शि॒वेन᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्या । वह्नी॒ इति᳚ । ग॒म॒तः॒ । विश᳚म् । नः॒ । र॒क्षः॒॑हना᳚ । सम्॑भृ᳚ता । वी॒ळुपा᳚णी॒ इति᳚ वी॒ळु॑पा᳚णी ।
सम् । अन्धां᳚सि । अ॒ग्म॒त॒ । म॒त्स॒राणि᳚ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् । शि॒वेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्या त्यौ तौ वह्नी हविषांवोढारौ नोस्माकं विशं प्रजां ऋत्विजं उपगमतः उपगच्छतां कीदृशौ तौ रक्षोहणा रक्षसां हन्तारौ संभृता सम्यग्भृतौ पुष्टांगौ वीळुपाणी दृढपाणी यद्वायमर्धर्चोश्वपरतयाव्याख्येयः तथा सति तौ रथस्यवोढारौ दृढपादौ अश्विनोरश्वौ उपग- च्छतामिति तस्यार्थः । अन्धांस्यन्नानि मत्सराणि मदकरणि सोमाः समग्मत समगच्छन्त युवां नोस्मान् मामर्धिष्टं माहिंस्तं किंतु शिवेन मङ्गलेन धनेन सार्धमागतमागच्छतम् ॥ ४ ॥