न्यु᳚ प्रि॒यो मनु᳚षः सादि॒ होता॒ नास᳚त्या॒ यो यज᳚ते॒ वन्द᳚ते च ।
अ॒श्नी॒तं मध्वो᳚ अश्विना उपा॒क आ वां᳚ वोचे वि॒दथे᳚षु॒ प्रय᳚स्वान् ॥
अ॒श्नी॒तं मध्वो᳚ अश्विना उपा॒क आ वां᳚ वोचे वि॒दथे᳚षु॒ प्रय᳚स्वान् ॥
पदपाठः (Word-by-word)
नि । ऊं॒ इति᳚ । प्रि॒यः । मनु᳚षः । सा॒दि॒ । होता᳚ । नास᳚त्या । यः । यज᳚ते । वन्द᳚ते । च॒ ।
अ॒श्नी॒तम् । मध्वः᳚ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे᳚षु । प्रय᳚स्वान् ॥
अ॒श्नी॒तम् । मध्वः᳚ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे᳚षु । प्रय᳚स्वान् ॥
सायणभाष्यम् (Sayana Commentary)
प्रियोयुवयोः प्रियभूतोमनुषोमानुषः मनुषः सकाशाज्जातोवा होता देवानामाह्वाता स्तोतायं निषादि न्यसादि निषण्णोभवति युवयोः कर्मणिवर्ततइत्यर्थः हे नासत्याश्विनौ योयजते यागंकरोति वन्दते स्तौति च तस्य संबन्धिनं मध्वोमधुरं सोमरसं हे अश्विनाश्विनौ उपा- केन्तिकएव संईपेस्थित्वैवाश्नीतं पिबतमित्यर्थः विदथेषु यज्ञेषु वां युवां प्रयस्वान् अन्नवान्सन् आवोचे आह्वये । उपूरणः ॥ २ ॥