श्रवणम्

7.73.5
आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि᳚ना यातमध॒रादुद᳚क्तात् ।
आ वि॒श्वत॒ः पाञ्च᳚जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
आ । प॒श्चाता᳚त् । ना॒स॒त्या॒ । आ । पु॒रस्ता᳚त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद᳚क्तात् ।
आ । वि॒श्वतः᳚ । पाञ्च᳚॑जन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आपश्चा दिति पञ्चम्याविनियोगोव्याख्यातचरः ॥ ५ ॥

इमाउवामिति षळृचं चतुर्थं सूक्तमाश्विनं वसिष्ठस्यार्षं आद्यातृतीयापञ्चम्योबृहत्यः शिष्टाः सतोबृहत्यः तथाचानुक्रान्तम्-इमाउवां षट्प्रागाथमिति । प्रातरनुवाके आश्विनेक्रतौ बार्हतेछन्दस्याश्विनशस्त्रेच सूक्तम् सूत्रितञ्च-इमाउवामयंवामिति । दशरात्रे पञ्चमेहनि प्रउगशस्त्रे इमाउवामित्ययमाश्विनस्तृचः सूत्रितञ्च-इमाउवांदिविष्टयःपिबासुतस्यरसिनइति ।