श्रवणम्

7.73.3 समानपद
अहे᳚म य॒ज्ञं प॒थामु᳚रा॒णा इ॒मां सु᳚वृ॒क्तिं वृ᳚षणा जुषेथाम् ।
श्रु॒ष्टी॒वेव॒ प्रेषि᳚तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर᳚माणो॒ वसि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
अहे᳚म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒॑वृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
श्रु॒ष्टी॒वा॑इ᳚व । प्र॑इ᳚षितः । वा॒म् । अ॒बो॒धि॒ । प्रति᳚ । स्तोमैः᳚ । जर᳚माणः । वसि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उराणा उरुस्तोत्रंकुर्वाणाः स्तोतारोवयं पथां पततां आगच्छताम् देवानामर्थाय यज्ञं यागं तत्साधनं हविर्वा अहेम वर्धयेम हे वृषणा वर्षकौ कामानां इमां सुवृक्तिं शोभनस्तुतिं जुषेथां सेवेथाम् वां युवां श्रुष्टीवेव श्रुष्टीति क्षिप्रनाम क्षिप्रगन्ता दूतइव प्रेषितोहं अबोधि बोधयति शीघ्रं गन्तव्यमिति । किं कुर्वन् स्तोमैः स्तोत्रैः प्रतिजरमाणः प्रतिस्तुवन् कः वसिष्ठोहं अबोधीति ॥ ३ ॥