बृ॒हदु᳚ गायिषे॒ वचो᳚॑सु॒र्या᳚ न॒दीना᳚म् ।
सर᳚स्वती॒मिन्म᳚हया सुवृ॒क्तिभि॒ः स्तोमै᳚र्वसिष्ठ॒ रोद᳚सी ॥
सर᳚स्वती॒मिन्म᳚हया सुवृ॒क्तिभि॒ः स्तोमै᳚र्वसिष्ठ॒ रोद᳚सी ॥
पदपाठः (Word-by-word)
बृ॒हत् । ऊं॒ इति᳚ । गा॒यि॒षे॒ । वचः᳚ । अ॒सु॒र्या᳚ । न॒दीना᳚म् ।
सर᳚स्वतीम् । इत् । म॒ह॒य॒ । सु॒॑वृ॒क्ति॑भिः᳚ । स्तोमैः᳚ । व॒सि॒ष्ठ॒ । रोद᳚सी॒ इति᳚ ॥
सर᳚स्वतीम् । इत् । म॒ह॒य॒ । सु॒॑वृ॒क्ति॑भिः᳚ । स्तोमैः᳚ । व॒सि॒ष्ठ॒ । रोद᳚सी॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अनया ऋषिरात्मानं संबोध्य सरस्वत्याःस्तुतौ प्रेरयति हे वसिष्ठ त्वं बृहदु बृहदेव महदेव वचः स्तोत्रं गायिषे गायसि किमर्थं नदीनां मध्ये असुर्या असुरशब्दाच्चतुर्थ्येकवचनस्यड्यादेशः असुरायै बलवत्यै नदीरूपायै सरस्वत्यै अस्याः प्रीणनार्थमित्यर्थः तथा रोदसी द्यावा- पृथिव्योः स्थितां दिवि देवतारूपेण भूम्यांवाग्रूपेण निवसन्तीं सरस्वतीमित् सरस्वतीमेव सुवृक्तिभिः सुष्ठु दोषवर्जितैः स्तोमैः स्तोत्रैर्म- हय पूजय सर्वदा सरस्वतीमेव स्तुहि नान्यां देवतामिति भावः ॥ १ ॥