श्रवणम्

7.96.6
पी॒पि॒वांसं॒ सर᳚स्वत॒ः स्तनं॒ यो वि॒श्वद᳚र्शतः ।
भ॒क्षी॒महि᳚ प्र॒जामिष᳚म् ॥
▶ पदपाठः (Word-by-word)
पी॒पि॒॑वांस᳚म् । सर᳚स्वतः । स्तन᳚म् । यः । वि॒श्व॑द᳚र्शतः ।
भ॒क्षी॒महि᳚ । प्र॒॑जाम् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पीपिवासं प्रवृद्धं सर्स्वतोदेवस्य स्तनं शब्दायमानं स्तनवद्रसाधारं वा मेघं भक्षीमहि भजेमहि प्राप्नुयाम । योविश्वदर्शतोविश्वैः सर्वैर्दर्श- तोभवति दृश्यमानोभवति तं स्तनं मेघमित्यर्थः तथा प्रजां पुत्रादिरूपां इषमन्नंच सरस्वतः प्रसादाद्भक्षीमहि ॥ ६ ॥

यज्ञेदिक्रइति दशर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं प्रथमायाइन्द्रः तृतीयानवम्योरिन्द्राब्रह्मणस्पती देवता दशम्याइन्द्राबृहस्पती शिष्टानांतु बृहस्पतिः । तथाचानुक्रान्तम्-यज्ञेदशैंद्मादि बार्हस्पत्यमन्त्यैन्द्रीच तृतीयानवम्यावैन्द्राब्राह्मणस्पत्यइति । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ ब्राह्मणाच्छंसिनः इदमुत्तरंच सूक्तमावापार्थं सूत्रितञ्च यज्ञेदिवइति सूक्तेइति ।