श्रवणम्

7.96.4
ज॒नी॒यन्तो॒ न्वग्र᳚वः पुत्री॒यन्त᳚ः सु॒दान᳚वः ।
सर᳚स्वन्तं हवामहे ॥
▶ पदपाठः (Word-by-word)
ज॒नि॒॑यन्तः᳚ । नु । अग्र᳚वः । पु॒त्रि॒॑यन्तः᳚ । सु॒॑दान᳚वः ।
सर᳚स्वन्तम् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनीयन्तः जायन्तआस्वपत्यानीति जनयोजायाः ताइच्छन्तः पुत्रीयन्तः पुत्रान्कामयमानाः सुदानवः शोभनदानाः अग्रवः उपगन्तारोवयं नु अद्य सरस्वन्तं देवं हवामहे स्तुमहे आह्वयामहे वा ॥ ४ ॥