ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु᳚मन्तो घृत॒श्चुतः᳚ ।
तेभि᳚र्नो॑वि॒ता भ᳚व ॥
तेभि᳚र्नो॑वि॒ता भ᳚व ॥
पदपाठः (Word-by-word)
ये । ते॒ । स॒र॒स्वः॒ । ऊ॒र्मयः᳚ । मधु᳚॑मन्तः । घृ॒त॒॑श्चुतः᳚ ।
तेभिः᳚ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
तेभिः᳚ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सरस्वः सरस्वन् देव ते त्वदीयाः ये ऊर्मयोजलसंघा मधुमन्तोरसवन्तः घृतश्चुतः घृतस्य वृष्ट्युदकस्य क्षारिणोभवन्ति तेभिस्तैरूर्मिभिः नोस्माकमविता रक्षिताभव ॥ ५ ॥ अन्वारंभणीयायां सरस्वतोयागस्य पीपिवांसमित्यनुवाक्या सूत्रितञ्च-पीपिवांसंसरस्वतोदिव्यंसुपर्णंवायसंबृहन्तमिति ।