उ॒भे यत्ते᳚ महि॒ना शु᳚भ्रे॒ अन्ध᳚सी अधिक्षि॒यन्ति᳚ पू॒रवः᳚ ।
सा नो᳚ बोध्यवि॒त्री म॒रुत्स᳚खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ॥
सा नो᳚ बोध्यवि॒त्री म॒रुत्स᳚खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ॥
पदपाठः (Word-by-word)
उ॒भे इति᳚ । यत् । ते॒ । म॒हि॒ना । शु॒भ्रे॒ । अन्ध᳚सी॒ इति᳚ । अ॒धि॒॑क्षि॒यन्ति᳚ । पू॒रवः᳚ ।
सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्॑स᳚खा । चोद᳚ । राधः᳚ । म॒घोना᳚म् ॥
सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्॑स᳚खा । चोद᳚ । राधः᳚ । म॒घोना᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे शुभ्रे शुभ्रवर्णे सरस्वति यत् यस्यास्ते तव महिना महिम्ना उभे अन्धसी उभयविधं दिव्यं पार्थिवं चाग्निं ग्राम्यमारण्यं वा पूरवः पूरयि- तव्या मनुष्याः अधिक्षियन्ति अधिगच्छन्ति सा त्वं अवित्री रक्षित्री सती नोस्मान् बोधि बुध्यस्व । अपिच मरुत्सखा मरुतोमाध्यमि- कादेवगणाः ते सखायोयस्या माध्यमिकाया वाचः तादृशी त्वं मघोनां हविर्लक्षणधनोपेतानामस्माकं राधोधनं चोद प्रेरय ॥ २ ॥