प्र ब्र॒ह्माणो॒ अङ्गि᳚रसो नक्षन्त॒ प्र क्र᳚न्द॒नुर्न᳚भ॒न्य᳚स्य वेतु ।
प्र धे॒नव᳚ उद॒प्रुतो᳚ नवन्त यु॒ज्याता॒मद्री᳚ अध्व॒रस्य॒ पेशः᳚ ॥
प्र धे॒नव᳚ उद॒प्रुतो᳚ नवन्त यु॒ज्याता॒मद्री᳚ अध्व॒रस्य॒ पेशः᳚ ॥
पदपाठः (Word-by-word)
प्र । ब्र॒ह्माणः᳚ । अङ्गि᳚रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य᳚स्य । वे॒तु॒ ।
प्र । धे॒नवः᳚ । उ॒द॒॑प्रुतः᳚ । न॒व॒न्त॒ । यु॒ज्याता᳚म् । अद्री॒ इति᳚ । अ॒ध्व॒रस्य᳚ । पेशः᳚ ॥
प्र । धे॒नवः᳚ । उ॒द॒॑प्रुतः᳚ । न॒व॒न्त॒ । यु॒ज्याता᳚म् । अद्री॒ इति᳚ । अ॒ध्व॒रस्य᳚ । पेशः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
ब्रह्माणः अंगिरसः एतन्नामकाऋषयः प्रनक्षन्त सर्वत्रव्याप्नुवन्तु क्रन्दनुः पर्जन्यझः नभन्यस्य स्तोत्रस्य अस्मदीयं स्तोत्रं प्रवेतु प्रकर्षेणे- च्छतु धेनवः प्रीणयित्र्योनद्यः उदप्नुतः उदकानि सिंचंत्यः प्रनवन्त सर्पन्तु अद्रिरद्रीयन्तौ पत्नीयजमानौ अध्वरस्य यज्ञस्य पेशः रूपं युज्यातां योजयेतां ॥ १ ॥