श्रवणम्

7.42.5
इ॒मं नो᳚ अग्ने अध्व॒रं जु᳚षस्व म॒रुत्स्विन्द्रे᳚ य॒शसं᳚ कृधी नः ।
आ नक्ता᳚ ब॒र्हिः स᳚दतामु॒षासो॒शन्ता᳚ मि॒त्रावरु᳚णा यजे॒ह ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्॑सु᳚ । इन्द्रे᳚ । य॒शस᳚म् । कृ॒धि॒ । नः॒ ।
आ । नक्ता᳚ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा᳚ । उ॒शन्ता᳚ । मि॒त्रावरु᳚णा । य॒ज॒ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोस्मदीयमिममध्वरं यज्ञं जुषस्व सेवस्व किंच मरुत्सु इन्द्रस्य सखिभूतेषु देवेषु इन्द्रेच यशसं यशोयुक्तं हविर्लक्षणान्नवन्तं नोस्मदीयं यज्ञं हेअग्ने त्वं कृधि कुरु स्थापयेत्यर्थः । तथा नक्ता रात्रिश्च उषसा दिवश्च अहर्निशेइत्यर्थः बर्हिर्बार्हिषि कुशमये आसदतां उपविशतां अपि च हे अग्ने उशन्ता उशन्तौ यज्ञमिच्छन्तौ मित्रावरुणा मित्रावरुणौ देवौ इहास्मिन् यज्ञे यज पूजय ॥ ५ ॥