सु॒गस्ते᳚ अग्ने॒ सन᳚वित्तो॒ अध्वा᳚ यु॒ङ्क्ष्वा सु॒ते ह॒रितो᳚ रो॒हित᳚श्च ।
ये वा॒ सद्म᳚न्नरु॒षा वी᳚र॒वाहो᳚ हु॒वे दे॒वानां॒ जनि᳚मानि स॒त्तः ॥
ये वा॒ सद्म᳚न्नरु॒षा वी᳚र॒वाहो᳚ हु॒वे दे॒वानां॒ जनि᳚मानि स॒त्तः ॥
पदपाठः (Word-by-word)
सु॒॑गः । ते॒ । अ॒ग्ने॒ । सन᳚॑वित्तः । अध्वा᳚ । यु॒ङ्क्ष्व । सु॒ते । ह॒रितः᳚ । रो॒हितः᳚ । च॒ ।
ये । वा॒ । सद्म᳚न् । अ॒रु॒षाः । वी॒र॒॑वाहः᳚ । हु॒वे । दे॒वाना᳚म् । जनि᳚मानि । स॒त्तः ॥
ये । वा॒ । सद्म᳚न् । अ॒रु॒षाः । वी॒र॒॑वाहः᳚ । हु॒वे । दे॒वाना᳚म् । जनि᳚मानि । स॒त्तः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने सनवत्तिः सनाच्चिरकालादारभ्यलब्धः ते त्वदीयोध्वामार्गः सुगः सुष्ठुगंतव्योभवतु किं च हरितः श्यामवर्णाः रोहितश्च लोहित- वर्णश्चेत्युभयविधाः येवा येच ते त्वदीयाअश्चाः सद्मन् यज्ञगृहे वीरवाहः वीरं शूरं त्वां वहन्तः अरुषाः आरोचमानाभवन्ति तांश्च त्वं सुयुंश्व त्वदीयेरथे सुष्ठु संयोजय निसत्तः यज्ञगृहे निषण्णोऽहं होतासन् सुते अभिषुते सोमे सति देवानामिन्द्रादीनां जनिमानि जनान् संघान् हुवे आह्वयामि ॥ २ ॥