श्रवणम्

7.42.4
य॒दा वी॒रस्य᳚ रे॒वतो᳚ दुरो॒णे स्यो᳚न॒शीरति᳚थिरा॒चिके᳚तत् ।
सुप्री᳚तो अ॒ग्निः सुधि᳚तो॒ दम॒ आ स वि॒शे दा᳚ति॒ वार्य॒मिय᳚त्यै ॥
▶ पदपाठः (Word-by-word)
य॒दा । वी॒रस्य᳚ । रे॒वतः᳚ । दु॒रो॒णे । स्यो॒न॒॑शीः । अति᳚थिः । आ॒॑चिके᳚तत् ।
सु॑प्री᳚तः । अ॒ग्निः । सु॑धि᳚तः । दमे᳚ । आ । सः । वि॒शे । दा॒ति॒ । वार्य᳚म् । इय᳚त्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

अतिथिः सर्वेषामतिथिभूतोग्निः यदा वीरस्य वीरकस्य स्तोत्राणां प्रेरयितुः रेवतः हविष्मतोयजमानस्य दुरोणे गृहे स्योनशीः सुखेन शयनीयः आचिकेतत् प्रज्ञायते अग्निःदमे यज्ञगृहे सुधितः आकारश्चार्थे सुनिहितश्च सुष्ठु निहितः सन् यदा सुप्रीतोभवति तदा सोग्निः इयत्यै उपगच्छन्त्यै विशे प्रजायै वार्यं वरणीयं धनं दाति ददाति प्रयच्छति ॥ ४ ॥