ए॒वाग्निं स᳚ह॒स्यं१॒᳚ वसि᳚ष्ठो रा॒यस्का᳚मो वि॒श्वप्स्न्य᳚स्य स्तौत् ।
इषं᳚ र॒यिं प᳚प्रथ॒द्वाज᳚म॒स्मे यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
इषं᳚ र॒यिं प᳚प्रथ॒द्वाज᳚म॒स्मे यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
ए॒व । अ॒ग्निम् । स॒ह॒स्य᳚म् । वसि᳚ष्ठः । रा॒यः॑का᳚मः । वि॒श्व॑प्स्न्य᳚स्य । स्तौ॒त् ।
इष᳚म् । र॒यिम् । प॒प्र॒थ॒त् । वाज᳚म् । अ॒स्मे इति᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
इष᳚म् । र॒यिम् । प॒प्र॒थ॒त् । वाज᳚म् । अ॒स्मे इति᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
वसिष्ठः एतदाख्यऋषिः रयस्कामः पश्वादिधनानीच्छन् एव एवमुक्तप्रकारेण सहस्यं सहोबलं तस्यपुत्रं तद्वन्तमितिवा अग्निं देवं विश्वप्स्न्यस्य पुरुरूपस्य धनस्य लाभाय स्तौत् एवंभूतोग्निः अस्मे अस्मभ्यं इषमन्नं रयिं धनं वाजं बलंच पप्रथत् प्रथयतु विस्तारयतु ददात्वित्यर्थः अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवायूयं अस्मान् कल्याणैः सर्वदा पालयत ॥ ६ ॥
प्रवोयज्ञेष्विति पंचर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं प्रवःपंचेत्यनुक्रान्तं सूक्तविनियोगोलैंगिकः । प्रथमेछन्दोमे प्रउगशस्त्रे प्रवोयज्ञेष्विति वैश्वदेवस्तृचः सूत्रितंच-प्रवोयज्ञेषुदेवयन्तोअर्चन् प्रक्षोदसाधायसासस्रएषेति प्रउगमिति ।