श्रवणम्

7.42.3
समु᳚ वो य॒ज्ञं म᳚हय॒न्नमो᳚भि॒ः प्र होता᳚ म॒न्द्रो रि᳚रिच उपा॒के ।
यज᳚स्व॒ सु पु᳚र्वणीक दे॒वाना य॒ज्ञिया᳚म॒रम᳚तिं ववृत्याः ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । वः॒ । य॒ज्ञम् । म॒ह॒य॒न् । नमः᳚॑भिः । प्र । होता᳚ । म॒न्द्रः । रि॒रि॒चे॒ । उ॒पा॒के ।
यज᳚स्व । सु । पु॒रु॒॑अ॒नी॒क॒ । दे॒वान् । आ । य॒ज्ञिया᳚म् । अ॒र॑म᳚तिम् । व॒वृ॒त्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः वोयुष्माकं यज्ञं नमोभिर्नमस्कारैर्युक्ता इमेस्तोतारोवा यजमानावा संमहयन् सम्यक् पूजयन्ति उइतिपूरकः मन्द्रः स्तुतिशीलः उपाके अस्माकं समीपे स्थितोस्मदीयोहोता प्ररिरिचे अन्येभ्योहोतृभ्यः अतिरिच्यते हे यजमान त्वं देवान् सु सुष्ठु यजस्व हे पुर्वणीक बहुतेजस्विन्नग्ने त्वं यज्ञियां यज्ञार्हां अरमतिं भूमिं आववृत्याः आवर्तय तथाचनिगमान्तरेआनोमहीमरमतिंसजोषाइति ॥ ३ ॥