श्रवणम्

7.77.1
उपो᳚ रुरुचे युव॒तिर्न योषा॒ विश्वं᳚ जी॒वं प्र᳚सु॒वन्ती᳚ च॒रायै᳚ ।
अभू᳚द॒ग्निः स॒मिधे॒ मानु᳚षाणा॒मक॒र्ज्योति॒र्बाध᳚माना॒ तमां᳚सि ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा᳚ । विश्व᳚म् । जी॒वम् । प्र॒॑सु॒वन्ती᳚ । च॒रायै᳚ ।
अभू᳚त् । अ॒ग्निः । स॒म्॑इधे᳚ । मानु᳚षाणाम् । अकः᳚ । ज्योतिः᳚ । बाध᳚माना । तमां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमुषाः उपो समीपेएव सूर्यस्य रुरुचे दीप्यते युवतिः यौवनोपेता योषान योषिदिव सा यथा वस्त्राभरणादिना पत्युः समीपे प्रदीप्यते तद्वत् किं कुर्वन्ती विश्वं सर्वं जीवंजीवसंघं चरायै सञ्चाराय प्रसुवन्ती प्रेरयन्ती । किञ्चाग्निः मानुषाणां मनुष्याणामर्थाय समिधे भूत् समिन्धनीयोभवत् । कृत्यार्थेकेन् । समिद्धःसन् तमांस्यन्धकारान् बाधमाना बाधमानं बाधकं ज्योतिस्तेजः सद्यः अकः अकर्षित् अथवा औशसं ज्योतिस्तमांसि बाधमाना बाध्यमानानि अकः अकरोत् ॥ १ ॥