श्रवणम्

7.77.4 समानपद
अन्ति᳚वामा दू॒रे अ॒मित्र᳚मुच्छो॒र्वीं गव्यू᳚ति॒मभ᳚यं कृधी नः ।
या॒वय॒ द्वेष॒ आ भ᳚रा॒ वसू᳚नि चो॒दय॒ राधो᳚ गृण॒ते म᳚घोनि ॥
▶ पदपाठः (Word-by-word)
अन्ति᳚॑वामा । दू॒रे । अ॒मित्र᳚म् । उ॒च्छ॒ । उ॒र्वीम् । गव्यू᳚तिम् । अभ᳚यम् । कृ॒धि॒ । नः॒ ।
य॒वय᳚ । द्वेषः᳚ । आ । भ॒र॒ । वसू᳚नि । चो॒दय᳚ । राधः᳚ । गृ॒ण॒ते । म॒घो॒नि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः अन्तिवामा अन्ति अस्मदन्तिके वामं वननीयं धनं यस्याः सा अन्तिवामा त्वं अमित्रं अस्मच्छत्रुं दूरे अस्मत्तोविप्रकृष्टदेशे वर्तमानं कृत्वा व्युच्छ विभाहि यथा मित्रोदूरेभवति तथा व्युच्छेत्यर्थः तथा उर्वीं गव्यूतिं भूमिं अभयं नोस्माकं कृधि कुरु किञ्च द्वेषोस्मत् द्वेष्टृन् यावय अस्मत्त् पृथक्कुरु । वसूनि शत्रूणां धनानि आभर आहर । राधोधनं चोदय प्रेरय गृणते स्तुवते मह्यं हे मघोनि हेधनवति ॥ ४ ॥