श्रवणम्

7.77.3 समानपद
दे॒वानां॒ चक्षु᳚ः सु॒भगा॒ वह᳚न्ती श्वे॒तं नय᳚न्ती सु॒दृशी᳚क॒मश्व᳚म् ।
उ॒षा अ᳚दर्शि र॒श्मिभि॒र्व्य᳚क्ता चि॒त्राम᳚घा॒ विश्व॒मनु॒ प्रभू᳚ता ॥
▶ पदपाठः (Word-by-word)
दे॒वाना᳚म् । चक्षुः᳚ । सु॒॑भगा᳚ । वह᳚न्ती । श्वे॒तम् । नय᳚न्ती । सु॒॑दृशी᳚कम् । अश्व᳚म् ।
उ॒षाः । अ॒द॒र्शि॒ । र॒श्मि॑भिः᳚ । वि॑अ᳚क्ता । चि॒त्र॑म᳚घा । विश्व᳚म् । अनु᳚ । प्र॑भू᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां चक्षुश्चक्षुःस्थानीयं तेजोवहन्ती धारयन्ती सुभगा शोभनधना सुदृशीकं सुदर्शनं अश्वं सर्वदागन्तारं आदित्यं नयन्ती प्रापयन्ती किं श्वेतं श्वेतवर्णोपेतं सूर्यं प्रकाशयुक्तं कुर्वतीत्यर्थः । कीदृशी उषः रश्मिभिः स्वकीयैर्व्यक्ता अदर्शि दृश्यतेच चित्रामघा चित्रधना विश्वमनु सर्वं जगदनुलक्ष्य प्रभूता प्रवृद्धा प्रवृद्धा सर्वजगद्भ्यवहारायेत्यर्थः ॥ ३ ॥