अ॒स्मे श्रेष्ठे᳚भिर्भा॒नुभि॒र्वि भा॒ह्युषो᳚ देवि प्रति॒रन्ती᳚ न॒ आयु᳚ः ।
इषं᳚ च नो॒ दध᳚ती विश्ववारे॒ गोम॒दश्वा᳚व॒द्रथ᳚वच्च॒ राधः᳚ ॥
इषं᳚ च नो॒ दध᳚ती विश्ववारे॒ गोम॒दश्वा᳚व॒द्रथ᳚वच्च॒ राधः᳚ ॥
पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । श्रेष्ठे᳚भिः । भा॒नु॑भिः᳚ । वि । भा॒हि॒ । उषः᳚ । दे॒वि॒ । प्र॒॑ति॒रन्ती᳚ । नः॒ । आयुः᳚ ।
इष᳚म् । च॒ । नः॒ । दध᳚ती । वि॒श्व॒॑वा॒रे॒ । गो॑म᳚त् । अश्व᳚॑वत् । रथ᳚॑वत् । च॒ । राधः᳚ ॥
इष᳚म् । च॒ । नः॒ । दध᳚ती । वि॒श्व॒॑वा॒रे॒ । गो॑म᳚त् । अश्व᳚॑वत् । रथ᳚॑वत् । च॒ । राधः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे उषोदेवि अस्मे अस्मभ्यं श्रेष्टेभिः प्रशस्यैर्भानुभीरश्मिभिः प्रकाशैर्विभाहि प्रकाशय किंकुर्वती नोस्माकमायुरायुष्यं प्रकर्षेण तिरन्ती प्रवर्धयन्ती हे विश्ववारे विश्वैः संभजनीये देवि नोस्मभ्यमिषञ्च गोमत् गोभिर्बहुभिरुपेतं अश्वावत् अश्वैश्चोपेतं रथवद्रथैरुपेतं राधोध- नञ्च दधती विभाहीति ॥ ५ ॥