विश्वं᳚ प्रती॒ची स॒प्रथा॒ उद᳚स्था॒द्रुश॒द्वासो॒ बिभ्र᳚ती शु॒क्रम᳚श्वैत् ।
हिर᳚ण्यवर्णा सु॒दृशी᳚कसंदृ॒ग्गवां᳚ मा॒ता ने॒त्र्यह्ना᳚मरोचि ॥
हिर᳚ण्यवर्णा सु॒दृशी᳚कसंदृ॒ग्गवां᳚ मा॒ता ने॒त्र्यह्ना᳚मरोचि ॥
पदपाठः (Word-by-word)
विश्व᳚म् । प्र॒ती॒ची । स॒॑प्रथाः᳚ । उत् । अ॒स्था॒त् । रुश᳚त् । वासः᳚ । बिभ्र᳚ती । शु॒क्रम् । अ॒श्वै॒त् ।
हिर᳚ण्य॑वर्णा । सु॒दृशी᳚क॑सन्दृक् । गवा᳚म् । मा॒ता । ने॒त्री । अह्ना᳚म् । अ॒रो॒चि॒ ॥
हिर᳚ण्य॑वर्णा । सु॒दृशी᳚क॑सन्दृक् । गवा᳚म् । मा॒ता । ने॒त्री । अह्ना᳚म् । अ॒रो॒चि॒ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वं कृत्स्नं जगत् प्रति प्रतीची अभिमुखी सप्रथाः सर्वतः पृथुतरा उदस्थात् उदगच्छत् उदिता व रुशत् दीप्तं शुक्रं तेजोमयं वसोवसनीयं तेजःसमूहं बिभ्रती धारयन्ती अश्चैत् वर्धते हिरण्यवर्णा हितरमणीयवर्णोपेता सुदृशीकसंदृक् संदर्शयतीति संदृक्तेजः सुष्ठु दर्शनीयं संदृक्ते- जोयस्याः सा तादृशी गवांवाचां गवामेववा माता निर्मत्री उषःकालेहि पक्षिमनुष्यादीनां वाचोनिर्गच्छन्ति गवामपि तस्मिन्काले सञ्चा- रात्तन्निर्मातृत्वं अथवा रश्मीनांनिर्मात्रीअरोचि रोचते अह्नां नेत्री दिवसानां प्रापयित्री ॥ २ ॥