यां त्वा᳚ दिवो दुहितर्व॒र्धय॒न्त्युषः᳚ सुजाते म॒तिभि॒र्वसि᳚ष्ठाः ।
सास्मासु᳚ धा र॒यिमृ॒ष्वं बृ॒हन्तं᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
सास्मासु᳚ धा र॒यिमृ॒ष्वं बृ॒हन्तं᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
यान् । त्वा॒ । दि॒वः॒ । दु॒हि॒तः॒ । व॒र्धय᳚न्ति । उषः᳚ । सु॒॑जा॒ते॒ । म॒ति॑भिः᳚ । वसि᳚ष्ठाः ।
सा । अ॒स्मासु᳚ । धाः॒ । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त᳚म् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सा । अ॒स्मासु᳚ । धाः॒ । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त᳚म् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे दिवोदुहितरुषः सुजाते शोभनजनने यां त्वा त्वां मतिभिः स्तोत्रैर्वसिष्ठाः वर्धयन्ति सा त्वमस्मासु वसिष्ठेषु ऋष्वं प्रदीप्तं बृहन्तं महान्तं रयिं धनं धाः धेहि । शिष्टं गतम् ॥ ६ ॥
प्रतिकेतवइति पञ्चर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमुषस्यं प्रतिपञ्चेत्यनुक्रमणिका । उक्तोविनियोगः ।