श्रवणम्

7.99.1
प॒रो मात्र᳚या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व᳚श्नुवन्ति ।
उ॒भे ते᳚ विद्म॒ रज᳚सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प᳚र॒मस्य᳚ वित्से ॥
▶ पदपाठः (Word-by-word)
प॒रः । मात्र᳚या । त॒न्वा᳚ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒॑त्वम् । अनु᳚ । अ॒श्नु॒व॒न्ति॒ ।
उ॒भे इति᳚ । ते॒ । वि॒द्म॒ । रज᳚सी॒ इति᳚ । पृ॒थि॒व्याः । विष्णो॒ इति᳚ । दे॒व॒ । त्वम् । प॒र॒मस्य᳚ । वि॒त्से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परइति सकारान्तं परस्तादित्यस्यार्थे परशब्दाच्छान्दसोसिप्प्रत्ययः परोदिवापरएनापृथिव्येतियथा । मात्रयेति पञ्चम्यर्थे व्यत्ययेन तृतीया मात्रायाः परः परस्ताद्वर्तमानया अपरिमितया तन्वा शरीरेण वृधान वर्धमान हे विष्णो ते तव महित्वं महत्त्वं नान्वश्नुवन्ति नानुव्याप्नुवन्ति त्रैविक्रमसमये यत्तवमाहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं नशक्यतइत्यर्थः । ते तव उभे रजसी उभौ लोकौ पृथिव्या आरभ्य पृथिवीमन्तरिक्षञ्च विद्म जानीमोवयं चक्षुषोपलभामहे नान्यत् हेदेव द्योतमान विष्णो त्वमेव परमस्य स्वर्गादेरुत्कृष्टलोकस्य द्वितीयार्थेषष्ठी परमं लोकं वित्से जानासि अतस्तव महत्वं नकेनापि व्याप्तुं शक्यमितिभावः ॥ १ ॥ पूर्वोक्तीवपशौ नतेविष्णोइति वपायाअनुवाक्या सूत्रितञ्च-नतेविष्णोजायमानोनजातस्त्वंविष्णोसुमतिंविश्वजन्यामिति ।