श्रवणम्

7.99.4
उ॒रुं य॒ज्ञाय᳚ चक्रथुरु लो॒कं ज॒नय᳚न्ता॒ सूर्य᳚मु॒षास᳚म॒ग्निम् ।
दास᳚स्य चिद्वृषशि॒प्रस्य᳚ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ॥
▶ पदपाठः (Word-by-word)
उ॒रुम् । य॒ज्ञाय᳚ । च॒क्र॒थुः॒ । ऊं॒ इति᳚ । लो॒कम् । ज॒नय᳚न्ता । सूर्य᳚म् । उ॒षस᳚म् । अ॒ग्निम् ।
दास᳚स्य । चि॒त् । वृ॒ष॒॑शि॒प्रस्य᳚ । मा॒याः । ज॒घ्नथुः᳚ । न॒रा॒ । पृ॒त॒नाज्ये᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू यज्ञाय यजमानाय उरुं विस्तीर्णं लोकं स्वर्गाख्यं चक्रथुरु कृतवन्तौखलु युवाम् । किं कुर्वन्तौ सूर्यं सर्वस्य प्रेरकमादित्यं उषसं तमोनिवारकमुषःकालं अग्निञ्च असुरैरावृतं जनयन्ता जनयन्तौ पुनः प्रादुर्भावयन्तौ हे नरा नेताराविन्द्राविष्णू वृषशिप्रस्य एतत्संज्ञकस्य दासस्य चित् उपक्षपयितुः असुरस्य मायाः पृतनाज्येषु संग्रामेषु जघ्नथुः जिहिंसथुर्युवां सूर्यादिकं जनयन्तावित्युच्यते ॥ ४ ॥