इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु᳚षे दश॒स्या ।
व्य᳚स्तभ्ना॒ रोद᳚सी विष्णवे॒ते दा॒धर्थ᳚ पृथि॒वीम॒भितो᳚ म॒यूखै᳚ः ॥
व्य᳚स्तभ्ना॒ रोद᳚सी विष्णवे॒ते दा॒धर्थ᳚ पृथि॒वीम॒भितो᳚ म॒यूखै᳚ः ॥
पदपाठः (Word-by-word)
इरा᳚वती॒ इतीरा᳚॑वती । धे॒नु॒मती॒ इति᳚ धे॒नु॒॑मती᳚ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति᳚ सु॒॑य॒व॒सिनी᳚ । मनु᳚षे । द॒श॒स्या ।
वि । अ॒स्त॒भ्नाः॒ । रोद᳚सी॒ इति᳚ । वि॒ष्णो॒ इति᳚ । ए॒ते इति᳚ । दा॒धर्थ᳚ । पृ॒थि॒वीम् । अ॒भितः᳚ । म॒यूखैः᳚ ॥
वि । अ॒स्त॒भ्नाः॒ । रोद᳚सी॒ इति᳚ । वि॒ष्णो॒ इति᳚ । ए॒ते इति᳚ । दा॒धर्थ᳚ । पृ॒थि॒वीम् । अ॒भितः᳚ । म॒यूखैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे द्यावापृथिव्यौ मनुषे स्तुवते मनुष्याय दशस्या दित्सया युक्ते युवां इरावतां अन्नवत्यौ धेनुमती गोमत्यौ सूयवसिनी शोभन- यवसेच भूतम भूतम् हिशब्दः प्रसिद्धौ विष्णुना विक्रान्तत्वात् युवामेव खलु पूर्वमभूतमित्यर्थः । हे विष्णो एते इमे रोदसी द्यावापृथिव्यौ व्यस्तभ्नाः विविधमधारयः पृथिवीमूर्ध्वमुखत्वेन द्याम धोमुखत्वेनेति विविधत्वम् । अपिच पृथिवीं प्रथितामिमां भूमिं अभितः सर्वत्रस्थितैर्मयूखैः पर्वतैर्दाधर्थ धारितवानसि यथा न चलति तथा दृढीकृतवानित्यर्थः पर्वताहि विष्णोः स्वभूताः विष्णुःपर्वता- नामधिपतिरितिश्रुतेः ॥ ३ ॥