श्रवणम्

7.99.6
इ॒यं म᳚नी॒षा बृ᳚ह॒ती बृ॒हन्तो᳚रुक्र॒मा त॒वसा᳚ व॒र्धय᳚न्ती ।
र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व᳚त॒मिषो᳚ वृ॒जने᳚ष्विन्द्र ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । म॒नी॒षा । बृ॒ह॒ती । बृ॒हन्ता᳚ । उ॒रु॒॑क्र॒मा । त॒वसा᳚ । व॒र्धय᳚न्ती ।
र॒रे । वा॒म् । स्तोम᳚म् । वि॒दथे᳚षु । वि॒ष्णो॒ इति᳚ । पिन्व᳚तम् । इषः᳚ । वृ॒जने᳚षु । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहती महती इयं मनीषा मननीया स्तुतिः बृहन्ता बृहन्तौ महन्तौ उरुक्रमा विस्तीर्णविक्रमौ विष्णुना सहैकार्थीभावात् इन्द्रस्याप्युरुक्रमत्वम् तवसा तवइति बलस्य वृद्धेर्वा नामधेयं तद्वन्तौ एवंभूतौ युवां वर्धयन्ती प्रवृद्धौ कुर्वती अस्माभिः कृता हे विष्णो हे इन्द्र विदथेषु यज्ञेषु वां युवाभ्यां स्तोमं उक्तलक्षणं स्तोत्रं ररे ददे रादानइतिधातुः तौ युवां वृजनेषु बलेषु निमित्तसप्तमी इषोन्नानि पिन्वतं अस्मभ्यं वर्धयतम् ॥ ६ ॥ अभ्युदयेष्टौ विष्णोः शिपिविष्टस्य वषट्तइत्येषानुवाक्या सूत्रितञ्च-भद्रातेहस्तासुकृतोतपाणी वषट्तेविष्णवासआकृणोमीति ।