श्रवणम्

7.99.5
इन्द्रा᳚विष्णू दृंहि॒ताः शम्ब᳚रस्य॒ नव॒ पुरो᳚ नव॒तिं च᳚ श्नथिष्टम् ।
श॒तं व॒र्चिनः᳚ स॒हस्रं᳚ च सा॒कं ह॒थो अ᳚प्र॒त्यसु᳚रस्य वी॒रान् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚विष्णू॒ इति᳚ । दृं॒हि॒ताः । शम्ब᳚रस्य । नव᳚ । पुरः᳚ । न॒व॒तिम् । च॒ । श्न॒थि॒ष्ट॒म् ।
श॒तम् । व॒र्चिनः᳚ । स॒हस्र᳚म् । च॒ । सा॒कम् । ह॒थः । अ॒प्र॒ति । असु᳚रस्य । वी॒रान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू दृंहिताः दृढीकृताः नव नवतिंच नवोत्तरनवतिसंख्याकाः पुरः पुराणि शंबरस्य स्वभूतानि श्नथिष्टम् अहिंसिष्टम् । श्नथहिंसायाम् । अपिच शतं सहस्रञ्च वर्चिनोअसुरस्यवीरान् अप्रति प्रतिद्वंद्विनोयथानभवन्ति तथा साकं सह संघशएव हथः अहिंसिष्टम् । योवर्चिनःशतमिन्द्रः सहस्रमितिहि निगमान्तरम् ॥ ५ ॥