श्रवणम्

7.99.2
न ते᳚ विष्णो॒ जाय᳚मानो॒ न जा॒तो देव᳚ महि॒म्नः पर॒मन्त᳚माप ।
उद᳚स्तभ्ना॒ नाक᳚मृ॒ष्वं बृ॒हन्तं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । वि॒ष्णो॒ इति᳚ । जाय᳚मानः । न । जा॒तः । देव᳚ । म॒हि॒म्नः । पर᳚म् । अन्त᳚म् । आ॒प॒ ।
उत् । अ॒स्त॒भ्नाः॒ । नाक᳚म् । ऋ॒ष्वम् । बृ॒हन्त᳚म् । दा॒धर्थ᳚ । प्राची᳚म् । क॒कुभ᳚म् । पृ॒थि॒व्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव दानादिगुणयुक्त विष्णो ते तव महिम्नः महत्त्वस्य परं विप्रकृष्टं अन्तमवसानं जायमानः प्रादुर्भवन् जनः नाप नप्राप्नोति । तथा जातः प्रादुर्भूतोपि जनोनैव प्राप्नोति तव महत्त्वस्यावसानं नास्ति अतएव सर्वैर्नज्ञायतइतिभावः कोसौ महिमा तमाह ऋष्वं दर्शनीयं बृहन्तं महान्तं नाकं द्युलोकं उदस्तभ्नाः त्वंऊर्ध्वमधारयः यथा अधोनपतति तथा पृथिव्याभूमेः संबंधिनीं प्राचीं ककुभञ्च दाधर्थ धारितवानसि उपलक्षणमेतत् सर्वस्य भूतजातस्य तथाचमंत्रान्तरम्-यउत्रिधातुपृथिवीमुतद्यामेकोदाधारभुवनानिविश्वेति ॥ २ ॥ पूर्वोक्तएवपशौ इरावतीइति हविषोयाज्या सूत्रितञ्च-इरावतीधेनुमतीहिभूतं विश्वकर्मनहविषावावृधानइति द्वेइति ।