प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता᳚रं॒ ज्योति᳚ः स॒मत्सु᳚ ।
सा॒स॒ह्वांसं᳚ यु॒धामित्रा᳚न् ॥
सा॒स॒ह्वांसं᳚ यु॒धामित्रा᳚न् ॥
पदपाठः (Word-by-word)
प्र॒॑ने॒तार᳚म् । वस्यः᳚ । अच्छ᳚ । कर्ता᳚रम् । ज्योतिः᳚ । स॒मत्॑सु᳚ ।
स॒स॒ह्वांस᳚म् । यु॒धा । अ॒मित्रा᳚न् ॥
स॒स॒ह्वांस᳚म् । यु॒धा । अ॒मित्रा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
वस्योवसीयः प्रशस्तं वसु धनं अच्छाभिमुख्येन प्रणेतारं प्रापयितारं समत्सु संग्रामेषु शत्रुनिरसनेन ज्येतिः प्रकाशं जयलक्षणं कर्तारं करणशीलं करोतेः ताच्छीलिकस्तृन् । कुतइत्यतआह युधा युद्धेन अमित्रान् शत्रून्ससह्वांसमभिभूतवंतं एवंगुणकमिन्द्रं वर्धयन्तीतिशेषः ॥ १० ॥