श्रवणम्

8.16.7
इन्द्रो᳚ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र᳚ः पु॒रू पु᳚रुहू॒तः ।
म॒हान्म॒हीभि॒ः शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । ब्र॒ह्मा । इन्द्रः᳚ । ऋषिः᳚ । इन्द्रः᳚ । पु॒रु । पु॒रु॒॑हू॒तः ।
म॒हान् । म॒हीभिः᳚ । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रोब्रह्मा परिवृढः सर्वेभ्योधिकः सएवेन्द्रऋषिर्द्रष्टा सर्वस्यार्यजातस्य सइन्द्रः पुरुबहुलं पुरुहूतोबहुभिराहूतश्च महीभिर्महतीभिः शचीभिः क्रियाभिः वृत्रवधादिरूपाभिः महान्प्रभूतो भवति ॥ ७ ॥