श्रवणम्

8.16.6
तमिच्च्यौ॒त्नैरार्य᳚न्ति॒ तं कृ॒तेभि᳚श्चर्ष॒णयः᳚ ।
ए॒ष इन्द्रो᳚ वरिव॒स्कृत् ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । च्यौ॒त्नैः । आर्य᳚न्ति । तम् । कृ॒तेभिः᳚ । च॒र्ष॒णयः᳚ ।
ए॒षः । इन्द्रः᳚ । व॒रि॒वः॒॑कृत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमित् तमेवेन्द्रं च्यौद्त्नैर्बलकरैः स्तोत्रैः आर्यन्ति आर्यमभिज्ञं ईश्वरं कुर्वन्ति चर्षणयोमनुष्याः कृतेभिः कृतैः कर्मभिश्च आर्यन्ति एषएवंगुणकइ- न्द्रोवरिवस्कृत् धनस्य कर्ता भवति स्तोतृणाम् ॥ ६ ॥