तम॒र्केभि॒स्तं साम᳚भि॒स्तं गा᳚य॒त्रैश्च᳚र्ष॒णयः᳚ ।
इन्द्रं᳚ वर्धन्ति क्षि॒तयः᳚ ॥
इन्द्रं᳚ वर्धन्ति क्षि॒तयः᳚ ॥
पदपाठः (Word-by-word)
तम् । अ॒र्केभिः᳚ । तम् । साम᳚॑भिः । तम् । गा॒य॒त्रैः । च॒र्ष॒णयः᳚ ।
इन्द्र᳚म् । व॒र्ध॒न्ति॒ । क्षि॒तयः᳚ ॥
इन्द्र᳚म् । व॒र्ध॒न्ति॒ । क्षि॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
चर्षणयोद्रष्टारोमंत्राणां क्षितयोमनुश्यास्तमिन्द्रं अर्केभिरर्चनसाधनैर्यजूरूपैः मंत्रैर्वर्धन्ति वर्धयन्ति तथोद्गातारः सामभिर्गानविशिष्टैर्मन्त्रैस्तंव- र्धयन्ति तथा गायत्रैर्गायत्र्यादिछन्दोयुक्तैः शस्त्ररूपैरप्रगीतैर्मंत्रैः तमेवेन्द्रं होतारोवर्धयन्ति ॥ ९ ॥