श्रवणम्

8.16.4
यस्यानू᳚ना गभी॒रा मदा᳚ उ॒रव॒स्तरु᳚त्राः ।
ह॒र्षु॒मन्त॒ः शूर᳚सातौ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अनू᳚नाः । ग॒भी॒राः । मदाः᳚ । उ॒रवः᳚ । तरु᳚त्राः ।
ह॒र्षु॒॑मन्तः᳚ । शूर᳚॑सातौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य मदाः सोमपानजनिताः अनूनाः अन्यूनाः गभीराः गांभीर्योपेताः उरवोविस्तीर्णाः तरुत्राः शत्रूणां तारकाः शूरसातौ शूरसंभजनीये संग्रामे हर्षुमन्तोहर्षयुक्ताः संग्रामोत्सुकाभवन्ति तमिन्द्रमिति पूर्वयोत्तरया वा संबंधः ॥ ४ ॥