श्रवणम्

8.16.12
स त्वं न᳚ इन्द्र॒ वाजे᳚भिर्दश॒स्या च᳚ गातु॒या च᳚ ।
अच्छा᳚ च नः सु॒म्नं ने᳚षि ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे᳚भिः । द॒श॒स्य । च॒ । गा॒तु॒॑य । च॒ ।
अच्छ᳚ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रं सतादृशस्त्वं नोस्मभ्यं वाजेभिर्बलैः दशस्यच धनं प्रयच्छच । दशस्यतिर्दानकर्मा । गातुय च गातुं मार्गं अस्मभ्यमिच्छ च गातुशब्दात् छंदसिपरेच्छायामिति क्यच् नछन्दस्यपुत्रस्येति दीर्घनिषेधः । तथा नोस्मान्सुम्नं सुखं चाच्छ नेषि अभिप्रापय ॥ १२ ॥

आयाहीति पंचदशर्चं पञ्चमं सूक्तम् इरिंबिठेरार्षमैन्द्रं चतुर्दशीबृहती पञ्चदशीसतोबृहती आदितस्त्रयोदशगायत्र्यः । अनुक्रम्यतेहि-आयाहिपंचोना प्रगाथांतमिति । अन्त्यंप्रगाथं वर्जयित्वा शिष्टस्य महाव्रतेउक्तोविनियोगः । ज्योतिष्टोमे प्रातःसवने ब्रह्मशस्त्रे आद्याःषळृचः स्तोत्रियानुरूपावन्त- राःसप्तेति । चातुर्विंशिकेहनि प्रातःसवने आद्यस्तुचोस्मिन्नेवशस्त्रे षळहस्तोत्रियसंज्ञकआवापार्थः सूत्रितञ्च-आयाहिसुषुमाहितइन्द्रमिद्गाथिनोबृह- दिति ।