श्रवणम्

8.16.2
यस्मि᳚न्नु॒क्थानि॒ रण्य᳚न्ति॒ विश्वा᳚नि च श्रव॒स्या᳚ ।
अ॒पामवो॒ न स᳚मु॒द्रे ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । उ॒क्थानि᳚ । रण्य᳚न्ति । विश्वा᳚नि । च॒ । श्र॒व॒स्या᳚ ।
अ॒पाम् । अवः᳚ । न । स॒मु॒द्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्निन्द्रे उक्थानि शस्त्राणि रण्यंति रमंते विश्वानि सर्वाणि श्रवस्या श्रवस्यानि श्रवणीयानि हविर्लक्षणानि अन्नानिच रमन्ते तत्रदृष्टांतः-समुद्रे उदधौ अपामुदकानां अवोन अवति गच्छतीत्यवस्तरंगजालं तद्यथा समुद्रेन्तर्भवति तथारण्यन्तीत्यर्थः ॥ २ ॥