तं सु᳚ष्टु॒त्या वि᳚वासे ज्येष्ठ॒राजं॒ भरे᳚ कृ॒त्नुम् ।
म॒हो वा॒जिनं᳚ स॒निभ्य᳚ः ॥
म॒हो वा॒जिनं᳚ स॒निभ्य᳚ः ॥
पदपाठः (Word-by-word)
तम् । सु॒॑स्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒॑राज᳚म् । भरे᳚ । कृ॒त्नुम् ।
म॒हः । वा॒जिन᳚म् । स॒नि॑भ्यः᳚ ॥
म॒हः । वा॒जिन᳚म् । स॒नि॑भ्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
तमिन्द्रं सुष्टुत्या शोभनया स्तुत्या आविवासे परिचरामि कीदृशं ज्येष्ठराजं ज्येष्ठेषु प्रशस्यातमेषु देवेषु मध्ये राजमानम् राजतेः सत्सूद्विषेतिक्विप् भरे संग्रामे महोमहतः वृत्रवधादेः कृत्नुं कर्तारं वाजिनमन्नवंतं बलवन्तं वा । किमर्थं सनिभ्योधनेभ्यः धनलाभायेत्यर्थः ॥ ३ ॥