श्रवणम्

8.16.5
तमिद्धने᳚षु हि॒तेष्व᳚धिवा॒काय᳚ हवन्ते ।
येषा॒मिन्द्र॒स्ते ज᳚यन्ति ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । धने᳚षु । हि॒तेषु᳚ । अ॒धि॒॑वा॒काय᳚ । ह॒व॒न्ते॒ ।
येषा᳚म् । इन्द्रः᳚ । ते । ज॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धनेषु हितेषु शत्रुषु निहितेषु प्रात्पेषु सत्सु तमित् तं पूर्वोक्तगुणमेवेन्द्रं अधिवाकाय अधिवचनाय पक्षपातवचनाय हवन्ते स्तोतारआह्वयन्ति । तत्रच येषां पक्षे इन्द्रोवर्तते तएव जयन्ति । जयेन तानि धनानि लभंते नान्ये ॥ ५ ॥