स न॒ः पप्रि᳚ः पारयाति स्व॒स्ति ना॒वा पु᳚रुहू॒तः ।
इन्द्रो॒ विश्वा॒ अति॒ द्विषः᳚ ॥
इन्द्रो॒ विश्वा॒ अति॒ द्विषः᳚ ॥
पदपाठः (Word-by-word)
सः । नः॒ । पप्रिः᳚ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒॑हू॒तः ।
इन्द्रः᳚ । विश्वा᳚ । अति᳚ । द्विषः᳚ ॥
इन्द्रः᳚ । विश्वा᳚ । अति᳚ । द्विषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पप्रिः प्राता पूरयिता पुरूहूतोबहुभिराहूतः सइन्द्रः विश्वाः सर्वाद्विषोद्वेष्ट्रीः प्रजाः नोस्मान् नावा तरणसाधनेन स्वस्ति क्षेमेण अतिपारयाति अतिपारयतु ॥ ११ ॥