उत्त्वा᳚ मन्दन्तु॒ स्तोमा᳚ः कृणु॒ष्व राधो᳚ अद्रिवः ।
अव᳚ ब्रह्म॒द्विषो᳚ जहि ॥
अव᳚ ब्रह्म॒द्विषो᳚ जहि ॥
पदपाठः (Word-by-word)
उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः᳚ । कृ॒णु॒ष्व । राधः᳚ । अ॒द्रि॒॑वः॒ ।
अव᳚ । ब्र॒ह्म॒॑द्विषः᳚ । ज॒हि॒ ॥
अव᳚ । ब्र॒ह्म॒॑द्विषः᳚ । ज॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वा त्वां स्तोमाः स्तुतय उत् उत्कृष्टं मन्दन्तु मादयन्तु । कृणुष्व कुरु राधोन्नं हे अद्रिवो वज्रवन्निन्द्रास्मभ्यम् । किञ्च ब्रह्मद्विषो ब्राह्मणद्वेष्टृनव जहि ॥ १ ॥