प॒दा प॒णी{4}र᳚रा॒धसो॒ नि बा᳚धस्व म॒हा{4} अ᳚सि ।
न॒हि त्वा॒ कश्च॒न प्रति᳚ ॥
न॒हि त्वा॒ कश्च॒न प्रति᳚ ॥
पदपाठः (Word-by-word)
प॒दा । प॒णीन् । अ॒रा॒धसः᳚ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ ।
न॒हि । त्वा॒ । कः । च॒न । प्रति᳚ ॥
न॒हि । त्वा॒ । कः । च॒न । प्रति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पणीन् लुब्धानराधसो यष्टव्यधनरहितान् केवलधनान् पदा पादेनातिक्रम्य नि नितरां बाधस्व । कुतः यतस्त्वं महान् असि भवसि त्वा त्वां तव कश्चन कश्चिदपि देवः असुरो मनुष्योवा प्रति प्रतिनिधिः सदृशः नह्यस्ति खलु ॥ २ ॥