अ॒यं ते॒ मानु᳚षे॒ जने॒ सोमः᳚ पू॒रुषु᳚ सूयते ।
तस्येहि॒ प्र द्र᳚वा॒ पिब᳚ ॥
तस्येहि॒ प्र द्र᳚वा॒ पिब᳚ ॥
पदपाठः (Word-by-word)
अ॒यम् । ते॒ । मानु᳚षे । जने᳚ । सोमः᳚ । पू॒रुषु᳚ । सू॒य॒ते॒ ।
तस्य᳚ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब᳚ ॥
तस्य᳚ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयं सोमस्ते त्वदर्थं तव स्वभूतो वा पूरुषु मनुष्येषु मध्ये मानुषे जन मयि सूयते । अथवा पूरुनामसु राजसु सूयते तस्य तमित्यर्थः तमेहि आगच्छ आगत्यच प्रद्रव ग्रहसमीपं तथा कृत्वा पिब तं सोमम् ॥ १० ॥