क्व१॒᳚ स्य वृ᳚ष॒भो युवा᳚ तुवि॒ग्रीवो॒ अना᳚नतः ।
ब्र॒ह्मा कस्तं स᳚पर्यति ॥
ब्र॒ह्मा कस्तं स᳚पर्यति ॥
पदपाठः (Word-by-word)
क्व᳚ । स्यः । वृ॒ष॒भः । युवा᳚ । तु॒वि॒॑ग्रीवः᳚ । अना᳚नतः ।
ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥
ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
स्यः सवृषभोवर्षिता युवा नित्यतरुणः तुविग्रीवः विस्तीर्णकन्धरः अनानतः कदाचिदप्यनवनतः इन्द्रः क्व कुत्र वर्तते इति कोजानातीत्यर्थः । को ब्रह्मा स्तोता तमिन्द्रं सपर्यति पूजयति ॥ ७ ॥