त्यं चि॒त्पर्व᳚तं गि॒रिं श॒तव᳚न्तं सह॒स्रिण᳚म् ।
वि स्तो॒तृभ्यो᳚ रुरोजिथ ॥
वि स्तो॒तृभ्यो᳚ रुरोजिथ ॥
पदपाठः (Word-by-word)
त्यम् । चि॒त् । पर्व᳚तम् । गि॒रिम् । श॒त॑व᳚न्तम् । स॒ह॒स्रिण᳚म् ।
वि । स्तो॒तृ॑भ्यः᳚ । रु॒रो॒जि॒थ॒ ॥
वि । स्तो॒तृ॑भ्यः᳚ । रु॒रो॒जि॒थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं त्यं चित् तं चिदिति पूरणः पर्वतं पर्ववन्तं गिरिं मेघं उभयोर्मेघनामत्वादेको योगरूढोद्रष्टव्यः शतवन्तं रातोदकवन्तं तथा सहस्रिणं अप- रिमितवृष्टिं मेघं स्तोतृभ्योर्थाय विरुरोजिथ विरुज वज्रेण ॥ ५ ॥