त्वमी᳚शिषे सु॒ताना॒मिन्द्र॒ त्वमसु᳚तानाम् ।
त्वं राजा॒ जना᳚नाम् ॥
त्वं राजा॒ जना᳚नाम् ॥
पदपाठः (Word-by-word)
त्वम् । ई॒शि॒षे॒ । सु॒ताना᳚म् । इ॒न्द्र॒ । त्वम् । असु᳚तानाम् ।
त्वम् । राजा᳚ । जना᳚नाम् ॥
त्वम् । राजा᳚ । जना᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं सुतानामभिषुतानां सोमानामीशिषे ईश्वरोभवसि तथा त्वमसुतानां बल्ल्याकारे वर्तमानानां चेशिषे त्वं जनानां सर्वेषां राजाभवसि ॥ ३ ॥