कं ते᳚ दा॒ना अ᳚सक्षत॒ वृत्र᳚ह॒न्कं सु॒वीर्या᳚ ।
उ॒क्थे क उ᳚ स्वि॒दन्त᳚मः ॥
उ॒क्थे क उ᳚ स्वि॒दन्त᳚मः ॥
पदपाठः (Word-by-word)
कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र᳚॑हन् । कम् । सु॒॑वीर्या᳚ ।
उ॒क्थे । कः । ऊं॒ इति᳚ । स्वि॒त् । अन्त᳚मः ॥
उ॒क्थे । कः । ऊं॒ इति᳚ । स्वि॒त् । अन्त᳚मः ॥
सायणभाष्यम् (Sayana Commentary)
ते त्वां दानाः यजमानैर्दत्ताः असक्षत सेवन्ते । हे वृत्रहन् वृत्रस्य हन्तरिन्द्र कं कीदृशं त्वां उक्थे शस्त्रे सुवीर्या शोभनवीर्याणि स्तोत्राणि असक्षत कउस्वित् अन्तमो कोवान्तिकतमो भवति युद्धे ॥ ९ ॥