एहि॒ प्रेहि॒ क्षयो᳚ दि॒व्या॒३॒᳚घोष᳚ञ्चर्षणी॒नाम् ।
ओभे पृ᳚णासि॒ रोद᳚सी ॥
ओभे पृ᳚णासि॒ रोद᳚सी ॥
पदपाठः (Word-by-word)
आ । इ॒हि॒ । प्र । इ॒हि॒ । क्षयः᳚ । दि॒वि । आ॒॑घोष᳚न् । च॒र्ष॒णी॒नाम् ।
आ । उ॒भे इति᳚ । पृ॒णा॒सि॒ । रोद᳚सी॒ इति᳚ ॥
आ । उ॒भे इति᳚ । पृ॒णा॒सि॒ । रोद᳚सी॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र एहि आगच्छ । तथा प्रेहि प्रगच्छ । दिवि द्युलोकात् किं क्षयोनिवासम् । किकुर्वन् आघोषं शब्दं कुर्वन् । किमर्थं चर्षणीनां मनुष्याणां अर्थाय । अथवा हविः स्वीकृत्य प्रेहि सुखेन गच्छ दिवमाघोषन् यजमानं स्तुवन् उभे रोदसी द्यावापृथिव्यौ आपृणासि आपूरयसि ते जसा वृष्ट्या वा ॥ ४ ॥