अ॒यं ते᳚ शर्य॒णाव᳚ति सु॒षोमा᳚या॒मधि᳚ प्रि॒यः ।
आ॒र्जी॒कीये᳚ म॒दिन्त᳚मः ॥
आ॒र्जी॒कीये᳚ म॒दिन्त᳚मः ॥
पदपाठः (Word-by-word)
अ॒यम् । ते॒ । श॒र्य॒णा॑व᳚ति । सु॒॑सोमा᳚याम् । अधि᳚ । प्रि॒यः ।
आ॒र्जी॒कीये᳚ । म॒दिन्॑त᳚मः ॥
आ॒र्जी॒कीये᳚ । म॒दिन्॑त᳚मः ॥
सायणभाष्यम् (Sayana Commentary)
अयमस्माभिरभिषुतः सोमः ते त्वां मदिन्तमोमादयितृतमोयं अधिश्रितः आश्रितः । कुत्रेति तदुच्यते शर्यणावति कुरुक्षेत्रस्य जघनार्धभवे शरतृ- णोपेते सरसि । तत्सरः कुत्रवर्ततइति उच्यते-सुषोमायां एतन्नामिकायां नद्याम् । साच कुत्र वर्ततइति तदुच्यते-आर्जीकीयेएतन्नामके देशे । एवमु- क्तप्रकारेणात्यन्तदूरदेशे वर्तते यः सोमः सएवायमभिषुतं पिबेति उत्तरत्रान्वयः ॥ ११ ॥